अधोलिखितश्लोकस्य प्रदत्ते अन्वये रिक्तस्थानानि मञ्जूषाप्रदत्तशब्दानां सहायतया पूरयत । अक्षोभ्य: क्षोभित: केन लक्ष्मणो धैर्यसागर: । येन रुष्टेन पश्यामि, शताकीर्णमिवाग्रत: ।। अन्वय: केन (i)___ अक्षोभ्य: लक्ष्मण: (ii)___ येन रुष्टेन (iii)___ इव अग्रत: पश्यामि ।
मञ्जूषा: शताकीर्णम्, क्षोभित:, धैर्यसागर: ।